|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.27. अध्यायः 027
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
गरुडेन शैलाग्रे उपविश्य गजकच्छपयोर्भक्षणम्॥ 1 ॥ ततः स्वर्गेऽमृतसमीपं गतेन तेन तत्र परितो ज्वलदग्निदर्शनभया********* प्रति तच्छमनोपायप्रश्नः॥ 2 ॥ ब्रह्मणा तम्प्रति नवनीतप्रक्षेपेणाग्निसंशामनचेदना॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
हत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती।
उपोपविश्य शैलाग्रे भक्षयामास तावुभौ।
वारणं कच्छर्प चैव संहृष्टः स पतत्रिराट्॥ 13-27-1(81950)
तयोः स रुधिरं पीत्वा मेदसी च परन्तप।
संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम्।
जंगाम देवराजस्य भवनं पन्नगाशनः॥ 13-27-2(81951)
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम्।
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह॥ 13-27-3(81952)
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत्।
नतु तोयान्न रक्षिभ्यो भयमस्योपपद्यते॥ 13-27-4(81953)
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम्।
पितामहमथो गत्वा ददर्श भुजगाशनः॥ 13-27-5(81954)
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः।
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः॥ 13-27-6(81955)
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम्।
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम्॥ 13-27-7(81956)
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर।
तदा मे जननी देव दासभावात्प्रमोक्ष्यते॥ 13-27-8(81957)
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति।
हिरण्यरेता भगवान्पाकशासनशासनात्॥ 13-27-9(81958)
तत्र मे देवदेवेश भयं तीव्रमथाविशत्।
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो॥ 13-27-10(81959)
समतिक्रमितुं शक्यः कथं स्यात्पावको मया।
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो॥ 13-27-11(81960)
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम्।
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः॥ 13-27-12(81961)
पयसा शाम्यते वत्स सर्पिषा च हुताशनः।
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि॥ 13-27-13(81962)
नवनीतं पयो वाऽपि पावके त्वं समादधेः।
ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः॥' ॥ 13-27-14(81963)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-27-7 जानीहीति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|